|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.66. अध्यायः 066
Mahabharata - Ashvamedhika Parva - Chapter Topics
कृष्णेन बलभद्द्रसुमद्रादिभिः सह यज्ञार्थं हास्तिनपुरं प्रत्यागमनम्॥ 1 ॥ तत उत्तरायां परिक्षितो परिक्षितो जननम्॥ 2 ॥ भश्वत्थामास्त्रेण जननकालएव शवभूतस्य तस्योज्जीवनाय कुन्त्यादिभिः श्रीकृष्णंप्रति प्रार्थना॥ 3 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
वैशम्पायन उवाच।
एतस्मिन्नेव काले तु वासुदेवोऽपि वीर्यवान्।
उपायाद्वृष्णिभिः सार्दं पुरं वारणसाह्वयम्॥ 14-66-1(94324)
समयं वाजिमेधस्य विदित्वा पुरुषर्षभः।
यथोक्तो धर्मपुत्रेण प्रव्रजन्स्वपुरीं प्रति॥ 14-66-2(94325)
रौक्मिणेयेन सहितो युयुधानेन चैव ह।
चारुदेष्णेन सांबेनि गदेन कृतवर्मणा॥ 14-66-3(94326)
सारणेन च वीरेण निशठेनोन्मुखेन च।
बलदेवं पुरस्कृत्य सुभद्रासहितस्तदा॥ 14-66-4(94327)
द्रौपदीमुत्तरां चैव पृथां चाप्यवलोककः।
समाश्वासयितुं चापि क्षत्रिया निहतेश्वराः॥ 14-66-5(94328)
तानागतान्समीक्ष्यैव धृतराष्ट्रो महीपतिः।
प्रत्यगृह्णाद्यथान्यायं विदुरश्च महामनाः॥ 14-66-6(94329)
तत्रैव न्यवसत्कृष्णः स्वर्चितः पुरुषोत्तमः।
विदुरेणि महातेजास्तथैव च युयुत्सुना॥ 14-66-7(94330)
वसत्सु वृष्णिवीरेषु तत्राथ जनमेजय।
जज्ञे तव पिता राजन्परिक्षित्परवीरहा॥ 14-66-8(94331)
स तु राजा महाराज ब्रह्मास्त्रेणावपीडितः।
शवो बभूव निश्चेष्टो हर्षशोकविवर्धनः॥ 14-66-9(94332)
हृष्टानां सिंहनादेन जनानां तत्र निःस्वनः।
आविवश दिशःसर्वाः पुनरेवाभ्युपागमत्॥ 14-66-10(94333)
ततः सोतित्वरः कृष्णो विवेशान्तःपुरं तदा।
युयुधानद्वितीयो वै व्यथितेन्द्रियमानसः॥ 14-66-11(94334)
ततस्त्वरितमायान्तीं ददर्शं स्वां पितृष्वसाम्।
क्रोशन्तीमभिधावेति वासुदेवं पुनःपुनः॥ 14-66-12(94335)
पृष्ठतो द्रौपदीं चैव सुभद्रां च यशस्विनीम्।
विक्रोशन्त्यश्च करुणं पाण्डवानां स्त्रियो नृप॥ 14-66-13(94336)
ततः कृष्णं समासाद्य कुन्ती भोजसुता तदा।
प्रोवाच राजशार्दूल बाष्पगद्गदया गिरा॥ 14-66-14(94337)
वासुदेव महाबाहो सुप्रजा देवकी त्वया।
त्वं नो गतिः प्रतिष्ठा च त्वदायत्तमिदं कुलम्॥ 14-66-15(94338)
यदुप्रवीर योऽयं ते स्वस्त्रीयस्यात्मजः प्रभो।
अश्वत्थाम्ना हतो जातस्तमुज्जीवय केशव॥ 14-66-16(94339)
त्वया ह्येतत्प्रतिज्ञातमैषीके यदुनन्दन।
अहं संजीवयिष्यामि मृतं जातमिति प्रभो॥ 14-66-17(94340)
सोयं जातो मृतस्तात पश्यैनं पुरुषर्षभ।
उत्तरां च सुभद्रां च द्रौपदीं मां च माधव॥ 14-66-18(94341)
धर्मपुत्रं च भीमं च फल्गुनं नकुलं तथा।
सहदेवं च दुर्धर्षं सर्वान्नस्त्रातुमर्हसि॥ 14-66-19(94342)
अस्मिन्प्राणाः समायत्ताः पाण्डवानां ममैव च।
पाण्डोश्च पिण्डो दाशार्ह तथैव श्वशुरस्य मे॥ 14-66-20(94343)
अभिमन्योश्च भद्रं ते प्रियस्य सदृशस्य च।
प्रियमुत्पादयाद्य त्वं प्रेतस्यापि जनार्दन॥ 14-66-21(94344)
उत्तरा हि पुरोक्तं वै कथयत्यरिसूदन।
अभिमन्योर्वचः कृष्ण प्रियत्वात्तन्न संशयः॥ 14-66-22(94345)
अब्रवीत्किल दाशार्ह वैराटीमार्जुनिस्तदा।
मातुलस्य कुलं भद्रे तव पुत्रो गमिष्यति॥ 14-66-23(94346)
गत्वा वृष्णयन्धककुलं धनुर्वेदं ग्रहीष्यति।
अस्त्राणि च विचित्राणि नितीशास्त्रं च केवलं॥ 14-66-24(94347)
इत्येतत्प्रणयात्तात सौभद्रः परवीरहा।
कथयामास दुर्धर्षस्तथा चैतन्न संशयः॥ 14-66-25(94348)
तास्त्वां वयं प्रणम्येह याचामो मधुसूदन।
कुलस्यास्य हितार्तं च कुरु कल्याणमुत्तमम्॥ 14-66-26(94349)
एवमुक्त्वा तु वार्ष्णेयं पृथा पृथुललोचना।
उद्धृत्य बाहू दुःखार्ता ताश्चान्याः प्रापतन्भुवि॥ 14-66-27(94350)
अब्रुवंश्च महाराज सर्वाः सास्राविलेक्षणाः।
स्वस्त्रीयो वासुदेवस्य मृतो जात इति प्रभो॥ 14-66-28(94351)
एवं गते ततः कुन्तीं पर्यगृह्णाज्जनार्दनः।
भूमौ निपतितां चैनां सान्त्वयामास भारत॥ ॥ 14-66-29(94352)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि षट्षष्टितमोऽध्यायः॥ 66 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|